Whatsappicon.jpg
Whatsappicon.jpg
ज्ञानमती नेटवर्क से जुड़ने के लिये ADD ME < मोबाइल नं.> लिखकर +91 7599002108 पर व्हाट्सएप पर मेसेज करें|


परम पूज्य गणिनीप्रमुख श्री ज्ञानमती माताजी ससंघ का 16/12/2018 रविवार को मध्यप्रदेश की राजधानी भोपाल में होगा मंगल प्रवेश ।

गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति:

ENCYCLOPEDIA से
यहाँ जाएँ: भ्रमण, खोज

गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति:

डॉ. पं. दामोदर जी शास्त्री, दिल्ली
छंद—शार्दूलविक्रीडित

यस्या आप्तजिनोक्तधर्मविषया श्रद्धा दृढा कीत्र्यते,
यज्ज्ञानं बहुशास्त्रवारिधि—तलस्र्पिश प्रसिद्धं भुवि।
चारित्रं च यदीयमस्ति विमलं तीर्थंकराज्ञानुगम् ,
भक्त्याहं प्रणमामि लोकमहितां तां ज्ञाज्ञमत्र्याियकाम्।।१।।

शास्त्राधीतिपरप्रबोधककथाव्याख्यानरूपादिभि:,
स्वाध्यायप्रमुखैस्तपोभिरखिलै: सच्चर्यया पूतया।
नित्यं स्वात्महिते रताऽपि कुरुते भव्योपकारं च या,
भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्र्याियकाम्।।२।।

श्रद्धानंकरणानुयोगविषये लोकस्य कर्तुं दृढ़म् ,
जम्बूद्वीप—मनोहरप्रतिकृर्तििनर्मापिताऽऽस्ते यया।
शास्त्रीयार्थविचारमन्थनपरं चित्तं यदीयं सदा,
भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्र्याियकाम्।।३।।

यस्या: पण्डितमण्डलीसमधिक श्रद्र्धािचतांघ्रिद्वयी,
भव्यानां शरणस्थली भुवि सदा नि:श्रेयसाकांक्षिणाम्।
प्राचीनार्षपरम्परा प्रवचनैर्यस्याश्च संरक्षिता,
भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्र्याियकाम्।।४।।

यस्या: क्षीणदुराग्रहा सुविशदा सच्चित्तवृत्ति: सदा,
सत्यान्वेषणतत्परा च भवति स्याद्वादमुद्रानुगा,।
नूनं संयमनिष्ठितो भवति यत्संसर्गमाप्तो जन:,
भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्र्यािकाम्।।५।।