ऊँ ह्रीं श्री ऋषभदेवाय नम:।

Whatsappicon.png
Whatsappicon.png
ज्ञानमती नेटवर्क से जुड़ने के लिये ADD ME < मोबाइल नं.> लिखकर +91 7599002108 पर व्हाट्सएप पर मेसेज करें |


पूज्य गणिनीप्रमुख आर्यिकाशिरोमणि श्री ज्ञानमती माताजी द्वारा देश के समस्त जैन विद्वानों के लिए विशेष सैद्धांतिक विषयों पर ऋषभगिरि-मांगीतुंगी से विद्वत प्रशिक्षण शिविर का पारस चैनल पर ४ दिसंबर, रविवार से ११ दिसंबर २०१६, रविवार तक प्रातः ६ बजे से ७ बजे तक सीधा प्रसारण होगा | घर बैठे देखकर अवश्य ज्ञान लाभ लें |

10.महाशांतिधारा

ENCYCLOPEDIA से
यहाँ जाएँ: भ्रमण, खोज


[सम्पादन]
महाशांतिधारा

।।ॐ नम: शांतिजिनेशिने।।

—शार्दूलविक्रीडित छंद—
श्री खण्डोद्भवकर्दमै: सुरुचिरै: कर्पूरचूर्णैर्मितै:।
संमिश्रैरतिगन्धिभिर्नदनदीकासारकूपादिभि:।।
पाथोभि: परिपूरितेन कलशैर्नान्त: स्थितैर्नात्मनां।
शान्त्यर्थं महाशांतिमंत्रपठनैर्देवं जिन स्नापये।।१।।
गद्य

ॐ कर्पूरकाश्मीरागुरुमलयजादिक्षोदव्यामिश्रैर्निर्णिक्तस्वर्णरेणूयमान-कञ्ज-किंजल्क-पुञ्जपिञ्जरितैर्बिजितविलसद्विलासिनीविलोललोचन-नीलनीरज-जलदपरिपूरितै: परिपूरितसकलजगद्घ्राणविवरबंधुरसौगन्द्ध्यै:।

—वसन्ततिलका छंद—
अन्धीकृतालिभिरभिष्टुतहेमकुम्भ-
सन्धारितैर्विजितदिग्द्विपदानगन्धै:।
बन्धुप्रभुं भवभृतां हतघातिबन्धम्,
गन्धोदवैर्जिनपतिं स्नपयामि शान्त्यै।।२।।

ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ॐ ह्रीं क्रों (अमुकनामधेयस्य) पापं खण्ड खण्ड, हन हन, दह दह, पच पच, पाचय पाचय, कुट कुट, शीघ्रं शीघ्रं, अर्हं अर्हं, झं क्ष्वीं क्ष्वीं हं स: झं वं ह्व: प: ह: क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्षीं ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्र: ह्रीं द्रां द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठ ठ ठ ठ (अमुकनामधेयस्य) श्रीरस्तु। सिद्धिरस्तु। वृद्धिरस्तु। तुष्टिरस्तु। पुष्टिरस्तु। शांतिरस्तु। कान्तिरस्तु। कल्याणमस्तु स्वाहा।

ॐ निखिलभुवनभवनमंगलीभूतजिनपतिसवनसमयसम्प्राप्ता:, वरमभिनवकर्पूर-कालागरुकुंकुमहरिचंदनाद्यनेक सुगधिबंधुरगन्धद्रव्य-सम्भारसम्बन्धबन्धुरं, अखिलदिगन्तरालव्याप्तसौरभातिशयसमाकृष्टसमद-सामजकपोलतलविगलितमदमुदित-मधुकरनिकरं, अर्हत्परमेश्वर-पवित्र-तरगात्रस्पर्शनमात्रपवित्रीभूतं भागवतमिदं गन्धोदकधारावर्षणमशेषमर्हन्निबंधनं (अमुकनामधेयस्य) शांतिंकरोतु, कान्तिमाविष्करोतु, कल्याणं प्रादुष्करोतु, सौभाग्यं सन्तनोतु, आरोग्यमातनोतु, सम्पदं सम्पादयतु, विपदमवसादयतु, यशो विकासयतु, मन: प्रसादयतु, आयुद्र्राघयतु, श्रियं श्लाघयतु, शुद्धिं विशुद्धयतु, बुद्धिं विवद्र्धयतु, श्रेय: पुष्णातु, प्रत्यवायं मुष्णातु, अनभिमतं निवारयतु, मनोरथं परिपूरयतु, परमोत्सवकारणमिदं, परममंगलमिदं, परमपावनमिदं, स्वस्त्यस्तु न:, स्वस्त्यस्तु व:, झ्वीं, क्ष्वीं हं स: असिआउसा स्वाहा।

ॐ नमोऽर्हते भगवते श्रीमते त्रैलोक्यनाथाय, घातिकर्मविनाशनाय, अष्टमहाप्रातिहार्यसहिताय, चतुिस्त्रशदतिशयसमेताय, अनंतदर्शनज्ञानवीर्य-सुखात्मकाय, अष्टादशदोषरहिताय, पंचमहाकल्याणसम्पर्णाय, नवकेवललब्धिसमन्विताय, दशविशेषणसंयुक्ताय देवाधिदेवाय, धर्मचक्राधीश्वराय, धर्मोपदेशनकराय, चमरवैराचनाच्युतेन्द्रप्रभृतीन्द्रशतेन मेरुगिरिशिखरशेखरीभूतपाण्डुकशिलातलेन गंधोदकपरिपूरितानेकविचित्र-मणिमयमंगलकलशैरभिषिक्तमिदानीमहं त्रैलोक्येश्वरमर्हत्परमेष्ठिन-मभिषेचयामि हं झं झ्वीं क्ष्वीं हं स: द्रां द्रीं ऐं अर्हं ह्रीं क्लीं ब्लूं द्रां द्रीं द्रावय द्रावय स्वाहा।
(आगे के उन उन मंत्रों द्वारा क्रम से जल, गंध आदिक अष्टद्रव्य चढ़ावें)

ॐ ह्रीं शीतोदकप्रदानेन शीतलो भगवान् प्रसीदतु, शीता आप: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व: न: स्वाहा।।१।।
 
गन्धोदकप्रदानेनाभिनन्दनो भगवान् प्रसीदतु, गन्धा: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।२।।
 
अक्षतोदक-प्रदानेनानंतो भगवान् प्रसीदतु, अक्षता: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।३।।

पुष्पोदकप्रदानेन पुष्पदन्तो भगवान् प्रसीदतु, पुष्पाणि पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।४।।
 
नैवेद्यप्रदानेन नेमिनाथो भगवान् प्रसीदतु पीयूष पिण्डा: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।५।।
 
दीपप्रदानेन चन्द्रप्रभो भगवान् प्रसीदतु, कर्पूरमाणिक्यदीपा: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।६।।
 
धूपप्रदानेन धर्मनाथो भगवान् प्रसीदतु, गुग्गुलादि-दशाङ्गधूपा: पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।७।।

फलप्रदानेन पाश्र्वनाथो भगवान् प्रसीदतु, क्रमुकनािरगप्रभृतिफलानि पान्तु, शिवमाङ्गल्यन्तु श्रीमदस्तु व:।।८।।

अर्हन्त: पान्तु व:। सद्धर्मश्रीबलायुरारोग्यैश्वर्याभिवृद्धिरस्तु व:। सिद्धा: पान्तु व: हृदयनिर्वाणं प्रयच्छन्तु व:। आचार्या: पान्तु व:। शीतलसौगन्ध्यमस्तु व:। उपाध्याया: पान्तु व:। सौमनस्यं चास्तु व:। सर्वंसाधव: पान्तु व:। अन्नदानतपोवीर्यविज्ञानमस्तु व:।।
(अगले मंत्रों से चौबीस बार पुष्प चढ़ावें।)

ॐ वृषभस्वामिन: श्रीपादपद्मप्रसादादष्टविधकर्मविनाशनमस्तु व: न: स्वाहा।।१।।

श्रीमदजितस्वामिन: श्रीपादपद्मप्रसादादजेयशक्तिर्भवतु: व:।।२।।

सम्भवस्वामिन: श्रीपादपद्मप्रसादादनेकगुणगणश्चास्तु व:।।३।।

अभिनंदनस्वामिन: श्रीपादपद्मप्रसादादभिमतफलं प्रयच्छन्तु व:।।४।।

सुमतिस्वामिन: श्रीपादपद्मप्रसादादमृतं पवित्रं प्रयच्छन्तु व:।।५।।

पद्मप्रभस्वामिन: श्रीपादपद्मप्रसादाद्दयां प्रयच्छन्तु व:।।६।।

सुपार्श्र्व स्वामिन: श्रीपादपद्मप्रसादात् कर्मक्षयश्चास्तु व:।।७।।
 
श्रीचन्द्रप्रभस्वामिन: श्रीपादपद्मप्रसादाच्चन्द्राक्रतेजोऽस्तु व:।।८।।

पुष्पदंतस्वामिन: श्रीपादपद्मप्रसादात् पुष्पसायकातिशयोऽस्तु व:।।९।।
 
शीतलस्वामिन: श्रीपादपद्मप्रसादादशुभकर्ममलप्रक्षालनमस्तु व:।।१०।।
 
श्रेयांसजिनस्वामिन: श्रीपादपद्मप्रसादात् श्रेयस्करोऽस्तु व:।।११।।

वासुपूज्यस्वामिन: श्रीपादपद्मप्रसादाद्रत्नत्रयावासंकरोऽस्तु व:।।१२।।

विमलस्वामिन: श्रीपादपद्मप्रसादात् सद्धर्मवृद्धिर्वै माङ्गल्यं चास्तु व:।।१३।।
 
अनंतनाथस्वामिन: श्रीपादपद्मप्रसादादनेकधनधान्याभिवृद्धिरक्षणमस्तु व:।।१४।।

धर्मनाथस्वामिन: श्रीपादपद्मप्रसादात् शर्मप्रचयोऽस्तु व:।।१५।।

श्रीमदर्हत्परमेश्वरसर्वज्ञपरमेष्ठिशांतिनाथस्वामिन: श्रीपादपद्मप्रसादात् शांतिकरोऽस्तु व:।।१६।।

कुन्थुनाथस्वामिन: श्रीपादपद्मप्रसादात्तत्राभि (तन्त्राभि) वृद्धिंकरोऽस्तु व:।।१७।।
 
अरजिनस्वामिन: श्रीपादपद्म-प्रसादात्परमकल्याणपरम्पराऽस्तु व:।।१८।।
 
मल्लिनाथस्वामिन: श्रीपादपद्मप्रसादाच्छल्यविमोचनकरोऽस्तु व:।।१९।।
 
मुनिसुव्रतस्वामिन: श्रीपादपद्मप्रसादात्सम्यग्दर्शनं चास्तु व:।।२०।।

नमिनाथस्वामिन: श्रीपादपद्मप्रसादात्सम्यग्ज्ञानं चास्तु व:।।२१।।
 
अरिष्टनेमिस्वामिन: श्रीपादपद्मप्रसादादक्षयं चारित्रं ददातु व:।।२२।।

श्रीमत्पार्श्र्वभट्टारकस्वामिन: श्रीपादपद्मप्रसादात्सर्वविघ्नविनाशनमस्तु व:।।२३।।
 
श्रीवर्धमानस्वामिन: श्रीपादपद्मप्रसादात्सम्यग्दर्शनाद्यष्टगुणविशिष्टं चास्तु व:।।२४।।

श्रीमद्भगवदर्हत्सर्वज्ञपरमेष्ठिपरमपवित्रशांतिभट्टारकस्वामिन: श्रीपादपद्म-प्रसादात्सद्धर्मश्रीबलायुरारोग्यैश्वर्याभिवृद्धिरस्तु। वृषभादयो महतिमहावीरवर्धमानपर्यन्तपरमतीर्थंकरदेवाश्चतुर्विंशतिरर्हन्तो भगवन्त: सर्वज्ञा: सर्वदर्शिन: सम्भिन्नतमस्का वीतरागद्वेषमोहास्त्रिलोकनाथास्त्रिलोक-महितास्त्रिलोकप्रद्योतनकरा जातिजरामरणविप्रमुक्ता: सकलभव्यजनसमूह-कमलवनसम्बोधनकरा: देवाधिदेवा अनेकगुणगणशत-सहस्रालङ्कृत-दिव्यदेहधरा: पञ्चकल्याणाष्टमहाप्रातिहार्यचतुस्त्रशदतिशय-विशेषसम्प्राप्ता: इंद्रचक्रधरबलदेववासुदेवप्रभृतिदिव्यसमानभव्यवरपुण्डरीक-परमपुरुष-मुकुटतटनिबिडनिबद्धमणिगणकरनिकरवारिधाराभिषिक्तचारुचरण-कमलयुगला: स्वशिष्यपरशिष्यवर्गा: प्रसीदन्तु व:।। परममाङ्गल्यनामधेया: सद्धर्मकार्येष्विहामुत्र च सिद्धा: सिद्धिं प्रयच्छन्तु व:।।

ॐनृपतिशतसहस्रालङ्कृतसार्वभौमराजाधिराजपरमेश्वरबलदेववासुदेव-मण्डलीकमहामंडलीकमहामात्यसेनानाथराजश्रेष्ठिपुरोहिताधीशकराञ्जलि-नमितकरकुड्मलमुकुलालङ्कृतपादपद्मा: कुलिशनालरजतमृणालमन्दारकर्णि-कारातिकुलगिरिशिखरशेखरगगनमन्दाकिनीमहाहृदनदनदीशतसहस्रदलकमल-वासिन्यादिसर्वाभरणभूषिताङ्गसकसुन्दरीवृन्दवन्दितचारुचरणकमलयुगला: आमौषधय:, क्ष्वेलौषधय:, जल्लौषधय:, विप्रुषौषधय:, सर्वौषधयश्च व: न: प्रीयन्तां प्रीयन्ताम्१।। मतिस्मृतिसंज्ञाचिन्ताभिनिबोधज्ञानिनश्च व: प्रीयन्तां प्रीयन्ताम्।। कोष्ठबुद्धिबीजबुद्धिपदानुसारिबुद्धिसम्भिन्नश्रोतृश्रवणाश्च व: प्रीयंतां प्रीयन्ताम्।। जलचारणजञ्घचारणतन्तुचारणभूमिचारणपुष्पचारण-श्रेणिचारणचतुरङ्गुलचारणाकाशचारणाश्च व: प्रीयन्तां प्रीयन्ताम्।। मनोबलिवचोबलिकायबलिनश्च व: प्रीयन्तां प्रीयन्ताम्।। उग्रतपोदीप्ततपो-महातपोघोरतपोऽनुतपोमहोग्रतपसश्च व: प्रीयन्तां प्रीयन्ताम्।। मतिश्रुता-वधिमन:पर्ययकेवलज्ञानिनश्च व: प्रीयन्तां प्रीयन्ताम्।। यमवरुणकुबेरवासवाश्च व: प्रीयन्तां प्रीयन्ताम्।। अनंतवासुकितक्षककर्कोट-कपद्ममहापद्मशंखपाल-कुलिशजयविजयादिमहोरगाश्च व: प्रीयन्तां प्रीयन्ताम्।। इंद्राग्नियमनैत-वरुणवायुकुबेरेशानधरणेन्द्रसोमाश्चेति दशदिक्पालकाश्च व: प्रीयन्तां प्रीयन्ताम्।। सुरासुरोरगेन्द्रचमरचारणसिद्धविद्याधरकिन्नरकिम्पुरुषगरुड-गन्धर्वयक्षराक्षसभूतपिशाचाश्च व: प्रीयन्तां प्रीयन्ताम्।। बुधशुक्रबृहस्पत्य-र्वेन्दुशनैश्चराङ्गारकराहुकेतुतारकादिमहाज्योतिष्कदेवाश्च व: प्रीयन्तां प्रीयन्ताम्।। चमरवैरोचनधरणानंदभूतानन्दवेणुदेववेणुधारिपूर्ण-वशिष्ठ-जलकांतजलप्रभु (प्रभ) घोषमहाघोषहरिषेणहरिकान्तामितगत्यमित-वाहनवेलाञ्जनप्रभञ्जनाग्निशिख्याग्निवाहनाश्चेति विंशतिभवनेन्द्राश्च व: प्रीयन्तां प्रीयन्ताम्।। गीतरतिगीतकांतसत्पुरुषमहापुरुषसुरुपप्रतिघोषपूर्णभद्र-मणिभद्रपुरुषचूलमहाचूलभीममहाभीमकालमहाकालाश्चेति षोडशव्यतरेन्द्राश्च व: प्रीयन्तां प्रीयन्ताम्।। नाभिराजजितशत्रुदृढ़राजस्वयंवरमेघराजधरणराज-सुप्रतिष्ठमहासेनसुग्रीवदृढ़रथविष्णुराजवसुपूज्यकृतवर्मसिंहसेनभानुराज-विश्वसेनसुदर्शनकुम्भराजसुमित्रविजयमहाराजसमुद्रविजयविश्वसेन-सिद्धार्थाश्चेति-जिनजनकाश्च व: प्रीयन्तां प्रीयन्ताम्।। मरुदेवीविजयासुषेणा-सिद्धार्थासुमंगलासुसीमापृथ्वीलक्ष्मणाजयरामासुनन्दाविपुलानंदाजयावत्यर्यश्यामा-लक्ष्मीमतीसुप्रभैरादेवीश्रीकांतामित्रसेनाप्रभावतीसोमावर्मिलाशिवादेवीब्राह्मीप्रिय-कारिण्यश्चेति जिनमातृकाश्च व: प्रीयन्तां प्रीयन्ताम्।। गोमुखमहायक्षत्रिमुख-यक्षेश्वरतुम्बुरुकुसुमवरनन्दिविजयाजितब्रह्मेश्वरकुमारषण्मुखपातालकिन्नर किम्षुरुषगरुडगन्धर्वमहेन्द्रकुबेरवरुणविद्युत्प्रभसर्वाह्नधरणेन्द्रमातङ्गनामाश्चेति चतुर्विंशतियक्षाश्च व: प्रीयन्तां प्रीयन्ताम्।। चक्रेश्वरीरोहिणीप्रज्ञप्तिवङ्का-शृंङ्खलापुरुषदत्तामनोवेगाकालीज्वालामालिनीमहाकालीमानवीगौरीगान्धारीवैरोटी-अनंतमतिमानसीमहामानसीजयाविजयापराजिताबहुरूपिणीचामुण्डी-कूष्माण्डीपद्मावतीसिद्धायिन्यश्चेति चतुर्विंशतिजिनशासनदेवताश्च व: प्रीयन्तां प्रीयन्ताम्।। कुलगिरिशिखरशेखरीभूतमहाहृदादिसरोवरमध्यस्थितसहस्रदल-कमलवासिन्यो मानिन्य: सकलसुन्दरीवृन्दवंदितपादकमलाश्च देव्यो व: प्रीयन्तां प्रीयन्ताम्।। यक्षवैश्वानरराक्षसनधृतपन्नगअसुरसुकुमारपितृविश्वमालिनीचमर-वैरोचनमहाविद्यमारविश्वेश्वरपिण्डाशनाश्चेति पञ्चदशतिथिदेवताश्च व: प्रीयन्तां प्रीयन्ताम्।। (सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलांतवकापिष्ठ-शुक्रमहाशुक्रशतारसहस्रारानतप्राणतारणाच्युतेन्द्रषोडशकल्पवासिनश्च व: प्रीयन्तां प्रीयन्ताम्।।) हिट्टिमहिट्टिम-हिट्टिममज्झमहिाट्टमोपरिम-मज्झमहिट्ठिम-मज्झममज्झम-मज्झमोपरिम-उपरिमहिट्ठिम-उपरिममज्झमउपरिमोपरिमाश्च नवग्रैवेयकवासिनोऽहमिन्द्रदेवाश्च व: प्रीयन्तां प्रीयन्ताम्।। अच्र्चअच्र्चमालिनी-वैरोचनसोमसोमरूपाज्रस्फटिकादित्यादिनवानुदिशवासिनश्च व: प्रीयन्तां प्रीयन्ताम्।। विजयवैजयन्त-जयन्तअपराजितसर्वार्थ-सिद्धिनामधेय-पञ्चानुत्तरविमानवासिनश्च व: प्रीयन्तां प्रीयन्ताम्।। अतीतानागतवर्तमान-विकल्पानेकविविधगुणसम्पूर्णाष्टगुणसंयुक्ता: सकलसिद्धसमूहाश्च व: प्रीयन्तां प्रीयन्ताम्।। सर्वकालमपि (अमुकनामधेयस्य) सम्पत्तिरस्तु। सिद्धिरस्तु। वृद्धिरस्तु। तुष्टिरस्तु। पुष्टिरस्तु। शांतिरस्तु। कांतिरस्तु। कल्याणमस्तु। सम्पदस्तु। मन: समाधिरस्तु। श्रेयोऽभिवृद्धिरस्तु। शाम्यंतु घोराणि। शाम्यंतु पापानि। पुण्यं वर्धताम्। धर्मो वर्धताम्। आयुर्वर्धताम्। श्रीर्वर्धताम्। कुलं गोत्रं चाभिवर्धताम्। स्वस्ति भद्रं चास्तु व:। ततो भूयो भूय: श्रेयसे।। ॐ ह्रीं झ्वीं क्ष्वीं हं स: स्वस्त्यस्तु व:। स्वस्त्यस्तु मे स्वाहा।

ॐ पुण्याहं पुण्याहं प्रीयन्ताम् प्रीयन्ताम्।। भगवंतोऽर्हंत: सर्वज्ञा: सर्वदर्शिन: सकलवीर्या: सकलसुखास्त्रिलोकेशास्त्रिलोकेश्वरपूजितास्त्रिलोक-नाथास्त्रिलोकमहितास्त्रिलोकप्रद्योतनकरा जातिजरामरणविप्रमुक्ता: सर्वविदश्च ॐ श्रीहृीधृतिर्कीितबुद्धिलक्ष्म्यश्च व: प्रीयन्तां प्रीयन्ताम्।। ॐ वृषभादि-वर्धमानान्ता: शान्तिकरा: सकलकर्मरिपुकांतारदुर्गविषमेषु रक्षन्तु मे जिनेन्द्रा:। आदित्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुनाम-नवग्रहाश्च व: प्रीयन्तां प्रीयन्ताम्।। तथिकरणनक्षत्रवारमुहूर्तलग्नदेवाश्च इहान्यत्र ग्रामनगरा-धिदेवताश्च ते सर्वे गुरुभक्ता अक्षीणकोशकोष्ठागारा भवेयु:। दानतपोवीर्यधर्मानुष्ठानादिनित्यमेवास्तु। मातृपितृभ्रातृपुत्रपौत्रकलत्र-गुरुसुहृत्स्वजनसम्बन्धिबन्धुवर्गसहितस्यास्य यजमानस्य (अमुकनामधेयस्य) धनधान्यैश्वर्यद्युतिबलयश:कीर्तिबुद्धिवर्धनं भवतु। सामोद: प्रमोदो भवतु। शांतिर्भवतु। कांतिर्भवतु। तुष्टिर्भवतु। पुष्टिर्भवतु। सिद्धिर्भवतु। वृद्धिर्भवतु। अविघ्नमस्तु। आरोग्यमस्तु। आयुष्यमस्तु। शुभं कर्मास्तु। कर्मसिद्धिरस्तु। शास्त्रसमृद्धिरस्तु। इष्टसंपदस्तु। अरिष्टनिरसनमस्तु। धनधान्यसमृद्धि-रस्तु। काममाङ्गल्योत्सवा: सन्तु। शाम्यन्तु घोराणि। शाम्यन्तु पापानि। पुण्यं वर्धताम्। धर्मो वर्धताम्। श्रीर्वर्धताम्। आयुर्वर्धताम्। कुलं गोत्रं चाभिवर्धताम्। स्वस्ति भद्रं चास्तु व:। स्वस्ति भद्रं चास्तु न:। झ्वीं झ्वीं हं स: स्वस्त्यस्तुते। स्वस्त्यस्तु मे स्वाहा।

ॐ नमोऽर्हते भगवते श्रीमते श्रीमत्पार्श्र्वतीर्थंकराय श्रीमद्रत्नत्रयालंकृताय दिव्यतेजोमूर्तये नम:। प्रभामण्डलमण्डिताय द्वादशगणपरिवेष्टिताय शुक्लध्यानपवित्राय सर्वज्ञाय स्वयंभुवे सिद्धाय बुद्धाय परमात्मने परमसुखाय त्रिलोकमहिताय अनंतसंसारचक्रपरिमर्दनाय अनंतज्ञानाय अनंतदर्शनाय, अनंतवीर्याय, अनंतसुखाय, सिद्धाय, बुद्धाय, त्रैलोक्यवशंकराय, सत्यज्ञानाय, सत्यब्रह्मणे, धरणेन्द्रफणामण्डलमण्डिताय, उपसर्गविनाशनाय, घातिकर्मक्षयंकराय, अजराय, अमराय, अभवाय, (अमुकनामधेयस्य)।

मृत्युं छिन्द छिन्द, भिन्द भिन्द। हन्तुकामं छिन्द छिन्द, भिन्द भिन्द। रतिकामं छिन्द छिन्द, भिन्द भिन्द। बलिकामं छिन्द छिन्द, भिन्द भिन्द। क्रोधं छिन्द छिन्द, भिन्द भिन्द। पापं छिन्द छिन्द, भिन्द भिन्द। वैरं छिन्द छिन्द, भिन्द भिन्द। वायुधारणं छिन्द छिन्द, भिन्द भिन्द। अग्निभयं छिन्द छिन्द, भिन्द भिन्द। सर्वशत्रुभयं छिन्द छिन्द, भिन्द भिन्द। सर्वोपसर्गं छिन्द छिन्द, भिन्द भिन्द। सर्वविघ्नं छिन्द छिन्द, भिन्द भिन्द। सर्वभयं छिन्द छिन्द, भिन्द भिन्द। सर्वराजभयं छिन्द छिन्द, भिन्द भिन्द। सर्वचोरभयं छिन्द छिन्द, भिन्द भिन्द। सर्वदुष्टभयं छिन्द छिन्द, भिन्द भिन्द। सर्वसर्पभयं छिन्द छिन्द, भिन्द भिन्द। सर्ववृश्चिकभयं छिन्द छिन्द, भिन्द भिन्द। सर्वग्रहभयं छिन्द छिन्द, भिन्द भिन्द। सर्वदोषं छिन्द छिन्द, भिन्द भिन्द। सर्वव्याधिं छिन्द छिन्द, भिन्द भिन्द। सर्वंडामरं छिन्द छिन्द, भिन्द भिन्द। सर्वपरमंत्रं छिन्द छिन्द, भिन्द भिन्द। सर्वात्मघातं छिन्द छिन्द, भिन्द भिन्द। सर्वपरघातं छिन्द छिन्द, भिन्द भिन्द। सर्वकुक्षिरोगं छिन्द छिन्द, भिन्द भिन्द। सर्वशूलरोगं छिन्द छिन्द, भिन्द भिन्द। सर्वाक्षिरोगं छिन्द छिन्द, भिन्द भिन्द। सर्वशिरोरोगं छिन्द छिन्द, भिन्द भिन्द। सर्वज्वररोगं छिन्द छिन्द, भिन्द भिन्द। सर्वनरमार छिन्द छिन्द, भिन्द भिन्द। सर्वगजमार छिन्द छिन्द, भिन्द भिन्द। सर्वाश्वमार छिन्द छिन्द, भिन्द भिन्द। सर्वगोमार छिन्द छिन्द, भिन्द भिन्द। सर्वमहिषमार छिन्द छिन्द, भिन्द भिन्द। सर्वाजमार छिन्द छिन्द, भिन्द भिन्द। सर्वसस्यमार छिन्द छिन्द, भिन्द भिन्द। सर्वधान्यमार छिन्द छिन्द, भिन्द भिन्द। सर्ववृक्षमार छिन्द छिन्द, भिन्द भिन्द। सर्वगुल्ममार छिन्द छिन्द, भिन्द भिन्द। सर्वलतामार छिन्द छिन्द, भिन्द भिन्द। सर्वपत्रमार छिन्द छिन्द, भिन्द भिन्द। सर्वपुष्पमार छिन्द छिन्द, भिन्द भिन्द। सर्वफलमार छिन्द छिन्द, भिन्द भिन्द। सर्वराष्ट्रमार छिन्द छिन्द, भिन्द भिन्द। सर्वदेशमार छिन्द छिन्द, भिन्द भिन्द। सर्वविषमार छिन्द छिन्द, भिन्द भिन्द। सर्वव्रूररोगभयवेतालशाकिनीडाकिनीभयं छिन्द छिन्द, भिन्द भिन्द। सर्ववेदनीयं छिन्द छिन्द, भिन्द भिन्द। सर्वमोहनीयं छिन्द छिन्द, भिन्द भिन्द। सर्पापस्मारं छिन्द छिन्द, भिन्द भिन्द। सर्वदुर्भगं छिन्द छिन्द, भिन्द भिन्द।

ॐ सुदर्शनमहाराजचक्रविक्रमतेजोबलशौर्यवीर्यं वशं कुरु कुरु। सर्वजनानंदं कुरु कुरु। सर्वजीवानंदं कुरु कुरु। सर्वराजानंदं कुरु कुरु। सर्वभव्यानंदं कुरू कुरू। सर्वगोकुलानंदं कुरु कुरु। सर्वग्रामनगरखेटकर्वट-मटम्बपत्तनद्रोणमुखजनानंदं कुरु कुरु। सर्वलोकं, सर्वदेशं, सर्वसत्त्वं, वशं कुरु कुरु। सर्वानंदं कुरु कुरु। सर्वपापं हन हन, दह दह, पच पच, पाचय पाचय, कुट कुट, शीघ्रं शीघ्रं, सर्वं वशमानय हूं फट् स्वाहा।


—अनुष्टुप् छन्द—
यत्सुखं त्रिषु लोकेषु व्याधिव्र्यसनवर्जितम्।
अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते।।१।।

  —बसंततिलका छन्द—
कल्याणमस्तु कमलाभिमुखी सदास्तु।
दीर्घायुरस्तु कुलगोत्रसमृद्धिरस्तु।।
आरोग्यमस्त्वभिमतार्थफलाप्तिरस्तु
भद्रं तवास्तु जिनपुङ्गवभक्तिरस्तु।।२।।

—शार्दूलविक्रीडित छन्द—
श्रीमज्जैनजनाच्र्चितप्रकटित स्याद्वादरत्नाकर:।
सद्धर्मामृतचन्द्रसुश्रुतकरो लावण्यरत्नाकर:।।
मोक्षद्वारकवाटपाटनपटु: प्रध्यानरत्नाकर:।
भौमो भूरिगुणाकरो विजयते योगीन्द्ररत्नाकर:।।३।।

पवित्रतरगन्धोदकेन जिनमभिषेचयामि स्वाहा।स्वधा।
।।इति गन्धोदकाभिषेक: महाशांतिमंत्र:।।
(आगे का श्लोक बोलकर अघ्र्य चढ़ाना)
स्नानानन्तरमर्हत: स्वयमपि स्नानाम्बुशेषाधृतो।
वार्गन्धाक्षतपुष्पदामचरुवैर्दीपैश्च धूपै: फलै:।।
कामोद्दामगजाज्र्शं जिनपतिं स्वभ्यच्र्य संस्तौति य:।
स स्यादारविचन्द्रमक्षयसुखं प्रख्यातकीर्तिध्वज:।।
अघ्र्यं। शांतिधारां, पुष्पांजलिम्।।
गंधोदक लेने के मंत्र
मुक्तिश्रीवनिताकरोदकमिदं पुण्यांकुरोत्पादकम्।
नागेन्द्र त्रिदशेन्द्रचक्रपदवीराज्याभिषेकोदकम्।।
स्यात्सज्ज्ञानचरित्रदर्शनलतासंसिद्धिसम्पादकम्।
कीर्तिश्रीजयसाधकं तव जिनस्नानस्य गन्धोदकम्।।४।।

नेत्रद्वन्द्वरुजोविनाशनकरं गात्रं पवित्रीकरम्।
वातोत्पित्तकफादिदोषरहितं गात्रं च सत्रं (पवित्रं) भवेत्।।
कामालाक्षयकुष्ठरोगविषमग्राहक्षयंकारि तत्।
श्रीमत्पाश्र्वजिनेन्द्रपादयुगलस्नानस्य गन्धोदकम्।।५।।

घातिव्रातविघातजातविपुल श्रीकेवलज्योतिषो।
देवस्यास्य पवित्रगात्रकलनात् पूतं हितं मंङ्गलम्।।
कुर्याद्भव्यभवार्तिदावशमनं स्वर्मोक्षलक्ष्मीफलम्।
प्रोद्यद्धर्मलताभिवर्धनमिदं सद्गन्धगन्धोदकम्।।६।।

नि:शेषाभ्युदयोपभोगफलवत्पुण्यांकुरोत्पादकम्।
धृत्वा पंकनिवारकं भगवत: स्नानोदकं मस्तके।।
ध्यातौ विश्वमुनीश्वरैरभिनुतौ प्रेक्षावतामर्चितौ।
इन्द्राद्यैर्मुहुरर्चितौ जिनपते: पादौ समभ्यर्चये।।७।।

।।ॐ शांति: शांति: शांति:। मंगलं भूयात्। श्री:।।
लघु शांतिमंत्र
ॐ नमोऽर्हते भगवते श्रीमते प्रक्षीणाशेषदोषकल्मषाय दिव्यतेजोमूर्तये नम: श्रीशांतिनाथाय शांतिकराय सर्वपापप्रणाशनाय सर्वविघ्नविनाशनाय सर्वरोगोपसर्गविनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामर-विनाशनाय ॐ ह्रां ह्रीं ह्रूँ ह्रौं ह्न: असि आ उसा (अमुकनामधेयस्य) सर्वशांतिं कुरु कुरु तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु वषट् स्वाहा।।