01.मंगलाचरण से स्वामित्व अनुयोग के प्रतिज्ञा सूत्र तक

ENCYCLOPEDIA से
यहाँ जाएँ: भ्रमण, खोज

मंगलाचरण से स्वामित्व अनुयोग के प्रतिज्ञा सूत्र तक

अथ स्वामित्वानुगम:

प्रथमो महाधिकार:
मंगलाचरणम्
मध्यलोके जिनेन्द्राणामकृता ये जिनालयाः।
चतुःशतानि वंदे तान्, अष्टपंचाशदुत्तरं।।१।।
अकृता ये जिनागाराः, त्रैलोक्यसंपदालयाः।
स्वयंभुवां स्वयंसिद्धाः, कुर्वन्तु मम मंगलम्।।२।।
विघ्ना निघ्नंतु मे सर्वे-ऽभीप्सितार्थप्रदाश्च ते।
तुष्टिपुष्टिप्रदातारः, कुर्वन्तु मम मंगलम्।।३।।
भारतस्य राजधानीदिल्लीमहानगर्यां चैत्रकृष्णाद्वादश्यां श्रीमद्भगवन्महावीरस्वामिनो जिनालये प्रारब्धं ‘इन्द्रध्वजनाम’ महाविधानं अस्मिन् विराजमाना जिनप्रतिमाः मध्यलोकसंबंधि-चतुःशताष्टपंचाशदकृत्रिम-जिनालयाः अस्य विधानस्य आराध्याश्चापि संति तान् जिनालयान् अकृत्रिमकृत्रिमजिनप्रतिमाश्च नमस्कृत्य सरस्वतीदेवीमपि वंदामहे वयम्।
अथ तावत् षट्खण्डागमस्य द्वितीयखण्डे एकादशानुयोगद्वारनिर्देशे तेषां नामानि प्रतिपाद्य प्रथमतः एकजीवापेक्षया स्वामित्वकथनमुख्यत्वेन स्वामित्वानुगमो नाम प्रथमो महाधिकारः प्रारभ्यते। तत्र तावत् चतुर्दशाधिकारा: क्रियन्ते। प्रथमेऽधिकारे बंधकर्तृणां स्वामित्वप्रतिपादन प्रतिज्ञारूपेण ‘‘एदेसिं’’ इत्यादिसूत्रत्रयं। कथयित्वा गतिमार्गणायां स्वामित्वनिरूपणपरत्वेन ‘‘गदियाणुवादेण’’ इत्यादिना दश सूत्राणि। तत्पश्चात्, द्वितीयाधिकारे इंद्रियमार्गणायां ‘‘इंदियाणुवादेण’’ इत्यादिसूत्रचतुष्टयं। ततः परं तृतीयाधिकारे कायमार्गणायां स्वामित्वकथनत्वेन ‘‘कायाणुवादेण’’ इत्यादिचतुर्दशसूत्राणि । ततः परं चतुर्थेऽधिकारे योगमार्गणायां स्वामित्वनिरूपणत्वेन ‘‘जोगाणुवादेण’’ इत्यादिसूत्रचतुष्टयं। तदनंतरं पंचमाधिकारे वेदमार्गणायां स्वामित्वनिरूपणपरत्वेन ‘‘वेदाणुवादेण’’ इत्यादिना चत्वारि सूत्राणि। तत्पश्चात् षष्ठेऽधिकारे कषायमार्गणायां स्वामित्वप्रतिपादनत्वेन ‘‘कसायाणुवादेण’’ इत्यादिसूत्रचतुष्टयं। तदनु सप्तमेऽधिकारे ज्ञानमार्गणायां स्वामित्वप्रतिपादनत्वेन ‘‘णाणाणुवादेण’’ इत्यादिना चत्वारि सूत्राणि। तत्पश्चात् अष्टमेऽधिकारे संयममार्गणायां स्वामित्वप्रतिपादनत्वेन ‘‘संजमाणुवादेण’’ इत्यादिना अष्टौ सूत्राणि। ततः परं नवमेऽधिकारे दर्शनमार्गणायां स्वामित्वनिरूपणत्वेन ‘‘दंसणाणुवादेण’’ इत्यादिसूत्रचतुष्टयं। ततः पुनः दशमेऽधिकारे लेश्यामार्गणायां स्वामित्वकथनत्वेन ‘लेस्साणुवादेण’’ इत्यादिसूत्रचतुष्टयं। पुनश्च एकादशेऽधिकारे भव्यमार्गणायां स्वामित्वप्रतिपादनपरत्वेन ‘‘भवियाणुवादेण’’ इत्यादिना चत्वारि सूत्राणि। तत्पश्चात् द्वादशेऽधिकारे सम्यक्त्वमार्गणायां स्वामित्वनिरूपणत्वेन ‘‘सम्मत्ताणुवादेण’’ इत्यादिना चतुर्दश सूत्राणि। तदनंतरं त्रयोदशाधिकारे संज्ञिमार्गणायां स्वामित्वप्ररूपणत्वेण ‘‘सण्णियाणुवादेण’’ इत्यादिना षट्सूत्राणि। ततः परंं चतुर्दशेऽधिकारे आहारमार्गणायां स्वामित्वनिरूपणपरत्वेन ‘‘आहाराणुवादेण’’ इत्यादिसूत्रचतुष्टयं इति समुदायपातनिका सूचिता भवति एकनवतिसूत्रैः चतुर्दशाधिकारैरिति।
अधुना एकादशानुयोगद्वारनामनिर्देशार्थं सूत्रद्वयमवतार्यते—
एदेसिं बंधयाणं परूवणट्ठदाए तत्थ इमाणि एक्कारस अणियोगद्दाराणि णादव्वाणि भवंति।।१।।
एगजीवेण सामित्तं, एगजीवेण कालो, एगजीवेण अंतरं, णाणाजीवेहि भंगविचओ, दव्वपरूवणाणुगमो, खेत्ताणुगमो, फोसणाणुगमो, णाणाजीवेहि कालो, अंतरं, भागाभागाणुगमो, अप्पबहुगाणुगमो चेदि।।२।।
सिद्धांतचिंतामणिटीका—एतेषां कर्मबंधकर्तृणां प्ररूपणायाः प्रयोजने सति तत्र इमानि उत्तरसूत्रकथितानि एकादशानियोगद्वाराणि ज्ञातव्यानि भवन्ति भव्यजीवैरिति।
अन्यार्थेषु बंधकेषु सत्सु ‘‘एतेषां बंधकानां’’ ईदृशः प्रत्यक्षनिर्देशः कथं उपपद्यते ?
नैष दोषः, बंधकविषयकबुद्ध्या प्रत्यक्षत्वमपेक्ष्य प्रत्यक्षनिर्देशोपपत्तेः।
सत्त्वानियोगद्वारं पूर्वमप्ररूप्य तेन सह द्वादशानियोगद्वारेभ्यः बंधकानां प्ररूपणा किन्न क्रियते ?
नैतद् वक्तव्यं, बंधकत्वेन असिद्धानां तत्सिद्धिप्ररूपणायै बंधकप्ररूपणत्वानुपपत्तेः। अतएव बंधकसत्त्व-प्ररूपणा अस्य द्वितीयखण्डग्रन्थस्य भूमिकारूपेण प्रागेव प्ररूपितास्ति, तदनंतरं एकादशानियोगद्वाराणां तेषां नामनिर्देशार्थं उत्तरसूत्रं कथितं अस्ति।
एकजीवापेक्षया स्वामित्वं, एकजीवापेक्षया कालः, एकजीवापेक्षया अंतरं, नानाजीवापेक्षया भंगविचयः, द्रव्यप्रमाणानुगमः, क्षेत्रानुगमः, स्पर्शनानुगमः, नानाजीवापेक्षया कालः, नानाजीवापेक्षया अंतरं, भागाभागा-नुगमः, अल्पबहुत्वानुगमश्चेति इमानि एकादशानियोगद्वाराणि भवन्ति। सूत्रान्तश्चशब्दः समुच्चयार्थोऽस्ति। इति शब्दः एतेषां बंधकानां प्ररूपणायां एतावन्त्येव अनियोगद्वाराणि भवन्ति नाधिकानि इति अवधारणार्थं कृतो भवति।
एकजीवेन स्वामित्वं पूर्वमेव किमर्थं उच्यते ?
न, उपरिमसर्वानियोगद्वाराणां कारणत्वेन स्वामित्वानियोगद्वारस्य अवस्थानात्। चतुर्दशमार्गणास्थानं औदयिकादिपंचसु भावेषु को भावः, कस्य मार्गणास्थानस्य स्वामी निमित्तं भवति न भवति इति स्वामित्वानियोगद्वारं प्ररूपयति। पुनः तेन भावेन उपलक्षितमार्गणायां बंधकेषु शेषानियोगद्वारप्रवृत्तेः।
शेषानियोगद्वारेषु कालः एव किमर्थं पूर्वं प्ररूप्यते ?
न, कालप्ररूपणायाः बिना अन्तरप्ररूपणानुपपत्तेः, पुनः अन्तरमेव वक्तव्यं, एकजीवसंबंधिनोऽन्यस्य अनियोगद्वारस्याभावात्।
नानाजीवसंबंधिषु शेषानियोगद्वारेषु नानाजीवापेक्षया भंगविचयः किमर्थमुच्यते ?
न, किंच-एतस्य मार्गणास्थानप्रवाहस्य विशेषः अनाद्यपर्यवसितः, एतस्य सादिसपर्यवसितः इति सामान्येनावगते शेषानियोगद्वाराणां अवतारसंभवात्। द्रव्यप्रमाणेऽनवगते क्षेत्रादि-अनियोगद्वाराणामधिगमोपायो नास्तीति द्रव्यानियोगद्वारस्य पूर्वनिवेशः कृतः। वर्तमानस्पर्शप्ररूपणायाः विना अतीत-वर्तमानस्पर्शप्ररूपक-स्पर्शनानियोगद्वाराधिगमोपायो नास्तीति क्षेत्रानियोगद्वारस्य पूर्वं निवेशः कृतः। मार्गणानां निवासक्षेत्रेऽवगते तेषां द्रव्यसंख्यायां चावगतायां पश्चात् अतीतकालस्पर्शप्ररूपणा न्यायादागता इति निवेशिता। मार्गणा-कालेऽनवगते तेषामन्तरादिप्ररूपणा न घटते इति पूर्वं कालानियोगद्वारं प्ररूपितं। कालःअंतरस्य योनिरिति कृत्वान्तरं तदनन्तरे प्ररूपितं। पुरतः उच्यमाणाल्पबहुत्वस्य साधनः इति कृत्वा भागाभागः प्ररूपितः। एतेषां पश्चात् अल्पबहुत्वानुगमः प्ररूपितः, सर्वानियोगद्वारेषु प्रतिबद्धत्वात्।
नानाजीवापेक्षया कालः नानाजीवापेक्षया भंगविचय: एतयोद्र्वयो: को विशेष: ?
नैतद् वक्तव्यं, नानाजीवेभ्य: भंगविचयस्य मार्गणानां विच्छेदाविच्छेदास्तित्वप्ररूपकस्य मार्गणानां कालान्तराभ्यां सह एकत्वविरोधात्।
इत्थं षट्खंडागमस्य द्वितीयखंडे भूमिकारूपेण बंधसत्त्वप्ररूपणां निरूप्य एकादशानियोगद्वाराणां नामानि कथयित्वा प्रथमस्वामित्वानियोगद्वारं कथयिष्यते, अत्रैव एकादशानियोगद्वाराणां क्रमोऽपि विवक्षितोऽस्ति।
अधुना स्वामित्वानियोगद्वारकथनाय प्रतिज्ञासूत्रमवतरति—
एयजीवेण सामित्तं।।३।।
सिद्धांतचिंतामणिटीका—‘यथा उद्देशः तथा निर्देशः’ इति न्यायानुसरणार्थं एकजीवापेक्षया बंधकर्तृणां जीवानां स्वामित्वं कथयिष्यन्ति आचार्यदेवाः।